|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.93. अध्यायः 093
Mahabharata - Sabha Parva - Chapter Topics
कुप्यतोऽर्जुनस्य युधिष्ठिरेण परिसान्त्वनम्॥ 1॥ धृतराष्ट्रेण वरं वरयेति द्रौपदीम्प्रति चोदनम्॥ 2॥ तत्प्रार्थनया धृतराष्ट्रेण युधिष्ठिरादीनामदासत्ववरदानम्॥ 3॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
द्रौपद्या वचनं श्रुत्वा चुकोपाथ धनञ्जयः।
स तदा क्रोधताम्राक्ष इदं वचनमब्रवीत्॥ 2-93-1(15115)
अयं तु मां वारयते धर्मराजो युधिष्ठिरः।
इत्युक्त्वा क्रोधताम्राक्षो धनुरादाय वीर्यवान्॥ 2-93-2(15116)
सव्यसाची समुत्पत्य ताञ्छत्रून्समुदैक्षत।
उद्यतं फल्गुनं तत्र ददृशुः सर्वपार्थिवाः॥ 2-93-3(15117)
युगान्ते सर्वलोकांस्तु दहन्तमिव पावकम्।
वीक्षमाणं धनुष्पामिं हन्तुकामं मुहुर्मुहुः॥ 2-93-4(15118)
हन्तुकामं पशून्क्रुद्धं रुद्रं दक्षक्रतौ यथा।
तथाभूतं नरं दृष्ट्वा विषेदुस्तत्र मानवाः॥ 2-93-5(15119)
धनञ्जयस्यव वीर्यज्ञा निराशा जीविते तदा।
मृतभूता भवन्सर्वे नेत्रैरनिमिषैरिव॥ 2-93-6(15120)
अर्जुनं धर्मपुत्रं च समुदैक्षन्त पार्थिवाः।
क्रुद्धं तदाऽर्जुनं दृष्ट्वा पृथिवी च चचाल ह॥ 2-93-7(15121)
खेचराणि च भूतानि वित्रेसुर्वै भयार्दिताः।
नादित्यो विरराजाथ नापि वान्ति च मारुताः। 2-93-8(15122)
न चन्द्रो न च नक्षत्रं द्यौर्दिशोन न विभान्ति ह।
सर्वमाविद्धमभवज्जगत्स्थावरजङ्गमम्॥ 2-93-9(15123)
उत्पतन्स वभौ पार्तो दिवाकर इवाम्बरे। 2-93-10(15124)
पार्थं दृष्ट्वा क्रुद्धं कालान्तकयमोपमम्।
भीमसेनो मुदा युक्तो युद्धायैव मनो दधे॥ 2-93-11(15125)
पाञ्चाली च ददर्शाथ सुसङ्क्रुद्धं धनञ्जयम्।
हन्तुकामं रिपून्मर्वान्सुपर्णमिव पन्नगान्॥ 2-93-12(15126)
दुष्प्रेक्षः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन्।
तं दृष्ट्वा तेजसा युक्तं विव्यधुः पुरवासिनः॥ 2-93-13(15127)
उत्पतन्तं तु वेगेन ततो दृष्ट्वा धनञ्जयम्।
जग्राह स तदा राजा पुरुहूतो यथा हरिम्॥ 2-93-14(15128)
उवाच स घृणी ज्येष्ठो धर्मराजो युधिष्ठिरः।
मा पार्थ साहसं कार्षीर्मा विनाशं गमेद्यशः॥ 2-93-15(15129)
अहमेतान्पापकृतो द्यूतज्ञान्दग्धुमुत्सहे।
कन्त्त्वसत्यगतिं दृष्ट्वा क्रोधो नाशमुपैति मे॥ 2-93-16(15130)
त्वमिमं जगतोऽर्थे वै कोपं संयच्छ पाण्डव॥ 2-93-17(15131)
वैशम्पायन उवाच॥ 2-93-18x(1676)
एवमुक्तस्तदा राज्ञा पाण्डवोऽथ धनञ्जयः।
क्रोधं संशमयन्पार्थो धार्तराष्ट्रं प्रति स्थितः॥ 2-93-18(15132)
तस्मिन्वीरे प्रशान्ते तु पाण्डवे फल्गुने पुनः।
सुसम्प्रहृष्टमभवज्जगत्स्थावरजङ्गमम्॥ 2-93-19(15133)
वारितं च तथा दृष्ट्वा भ्रात्रा पार्थं वृकोदरः।
बभूव विमना राजन्नभून्निश्शब्दमत्र वै॥ 2-93-20(15134)
ततो राज्ञो धृतराष्ट्रस्य गेहे
गोमायुरुच्चैर्व्याहरदग्निहोत्रे।
तं रासभाः प्रत्यभाषन्त राज-
न्समन्ततः पक्षिणश्चैव रौद्राः॥ 2-93-21(15135)
तं वै शब्दं विदुरस्तत्त्ववेदी
शुश्राव घोरं सुबलात्मजा च।
भीष्मो द्रोणो गौतमश्चापि विद्वान्
स्वस्तिस्वस्तीत्यपि चैवाहुरुच्चैः॥ 2-93-22(15136)
ततो गान्धारी विदुरश्चापि विद्वां-
स्तमुत्पातं घोरमालक्ष्य राज्ञे।
निवेदयामासतुरार्तवत्तदा
ततो राजा वाक्यमिदं बभाषे॥ 2-93-23(15137)
धृतराष्ट्र उवाच॥ 2-93-24x(1677)
हतोऽसि दुर्योधन मन्दबुद्धे
यस्त्वं सभायां कुरुपुङ्गवानाम्।
स्त्रियं समाभाषसि दुर्विनीत
विशेषतो द्रौपदीं धर्मपत्नीम्॥ 2-93-24(15138)
वैशम्पायन उवाच॥ 2-93-25x(1678)
एवमुक्त्वा धृतराष्ट्रो मनीषी
हितान्वेषी बान्धवानामपायात्।
कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं 2-93-25(15139)
विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः॥ 2-93-26(15140)
धृतराष्ट उवाच॥
वरं वृणीष्व पाञ्चालि मत्तो यदभिवाञ्छसि। 2-93-26x(1679)
वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती॥ 2-93-27(15141)
द्रौपद्युवाच॥ 2-93-27x(1680)
ददासि चेद्वरं मह्यंवृणोमि भरतर्षभ।
सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः॥ 2-93-27(15142)
मनस्विनमजानन्तो मैवं ब्रूयुः कुमारकाः।
एतं वै दासपुत्रेति प्रतिविन्ध्यं ममात्मजम्॥ 2-93-28(15143)
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित्।
लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत॥ 2-93-29(15144)
धृतराष्ट्र उवाच॥ 2-93-30x(1681)
एवं भवतु कल्याणि यथा त्वमभिभाषसे।
द्वितीयं ते वरं भद्रे ददानि वरयस्व ह।
मनो हि मे वितरति नैकं त्वं वरमर्हसि॥ 2-93-30(15145)
द्रौपद्युवाच॥ 2-93-31x(1682)
सरथौ सघनुष्कौ न भीमसेनधनञ्जयौ।
यमौ च वरये राजन्नदासान्स्ववशानहम्॥ 2-93-31(15146)
धृतराष्ट्र उवाच॥ 2-93-32x(1683)
तथाऽस्तु ते महाभागे यथा त्वं नन्दिनीच्छसि।
तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसंस्कृता। 2-93-32(15147)
त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ॥ 2-93-33(15148)
द्रौपद्युवाच। 2-93-33x(1684)
लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे।
अनर्हा वरमादातुं तृतीयं राजसत्तम॥ 2-93-33(15149)
एकामाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रियो वरौ।
त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः॥ 2-93-34(15150)
पापीयांस इमे भूत्वा सन्तीर्णाः पतयो मम।
वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा॥ ॥ 2-93-35(15151)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि त्रिनवतितमोऽध्यायः॥93 ॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-93-21 अग्निहोत्रे गृह्याग्निसमीपे॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|